अपरेणाहवनीयमतिक्रम्यासन्द्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति
अदित्याः सदोऽसि इति १
तस्मिन् राजानमासादयति अदित्याः सद आसीद इति २
अथैनं वाससा परिश्रयति वरुणोऽसि धृतव्रतः इति ३
अथैनं वारुण्यर्चा
परिचरति
एवा वन्दस्व वरुणं बृहन्तं नमस्या धीरममृतस्य गोपाम् ।
स नः शर्म त्रिवरूथं वियँ सद् यूयं पात स्वस्तिभिः सदा नः ॥
इति ४
ततः सम्प्रेष्यति राजानं चाग्निं चान्तरेण मा गात इति ५
समानमाज्यानां
ग्रहणात् ६
चतुर्गृहीतान्याज्यानि गृह्णाति ७
चतुर्होत्रातिथ्यमासाद्य
सम्भार-यजूँ षि व्याख्याय निर्मन्थ्यस्यावृता निर्मन्थ्येन चरति ८
सप्तदश सामिधेन्यो भवन्ति ९
समानमा प्रयाजेभ्यः १०
चतुर्थे सर्वमौपभृतँ
समानयति ११
नात्रोपभृतमभिघारयति १२
इडान्तातिथ्या सन्तिष्ठते १३
सर्वं पुरोडाशमि-डामुपह्वयेतेत्येकम् । निरवद्येदित्यपरम् १४
२२
इति दशमः प्रश्नः