अथातिथ्यायास्तन्त्रं प्रक्रमयति १
इक्षुशलाके विधृती आश्ववालं प्रस्तरं
बर्हिष्युपसन्नह्यति । कार्ष्मर्यमयान् परिधीनिध्मे २
द्वाविँ
शतिदारुमिध्मं करोति ३
समानमा निर्वपणात् ४
अन्वारब्धायां
पत्न्यामातिथ्यं निर्वपति ५
पत्न्या वा हस्तेन ६
अग्नेरातिथ्यमसि विष्णवे
त्वा इत्येतैर्मन्त्रैः पञ्चकृत्वो गृह्णाति ७
सर्वेषु सावित्रं जुष्टं
चानुषजेदित्येकम् । त्रिष्वेवेत्यपरम् ८
वैष्णवो नवकपालः पुरोडाशो
भवति ९
वैष्णवा एवात ऊर्ध्वं निगमा भवन्ति १०
हविष्कृता वाचं विसृज्य
तथैवोत्तरमनड्वाहं विमुञ्चति ११
वारुणमसि इति राज्ञो वासोऽपादत्ते
१२
वरुणोऽसि धृतव्रतः इति राजानम् १३
अछि-द्र पत्रः प्रजा
उपावरोहोशन्नुशतीः स्योनः स्योनाः । सोम
राजन् विश्वास्त्वं प्रजा उपावरोह विश्वास्त्वां प्रजा उपावरोहन्तु
इत्युपावहृत्य हरन्ति उर्वन्तरिक्षं वीहि इति १४
पूर्वया द्वारा प्राग्वँ
शं प्रपादयति या ते धामानि हविषा यजन्ति इति १५
२१