अभिप्रयाति प्र च्यवस्व भुवस्पते इति प्रतिपद्य यजमानस्य स्वस्त्ययन्यसि
इत्यन्तेन १
प्राञ्चोऽभिप्रयाय प्रदक्षिणमावर्तन्ते २
अपि
पन्थामगस्महि इत्युत्तरेण
राजानमध्वर्युर्यजमानश्चातिक्रामतः
३
अग्नीषोमीयेण कर्णगृहीतेन राजानमोह्यमानं यजमानः प्रतीक्षते नमो मित्रस्य
वरुणस्य चक्षसे इति ४
अग्नीन् प्रज्वलयन्ति ५
आहवनीये महदभ्यादधति ६
अध्वर्यव आस-न्दीमुद्गृह्णन्ति ७
अरत्निमात्रशीर्षण्यानूच्या
नाभिदघ्नपादा मौञ्जविवयन्यौदुम्बरी भवति ८
तत्रैषोऽत्यन्तप्रदेशः । यत्र
क्व च बहून् कर्तॄ ँश्चोदयेदध्वर्यव एव तत् कुर्युः । यत्र द्वौ
प्रतिप्रस्थाता तत्र द्वितीयः स्यात् ९
अग्रेण प्राग्वँ शं वारुणमसि
इति शकटमाखिदति १०
उदगीषमवस्थापयति ११
वरुण-स्त्वोत्तभ्नातु
इत्युत्तभ्नाति १२
वारुणमसि इति योक्त्रपाशं विचृतति १३
वरुणस्य स्कम्भनमसि इति शम्यामुत्खिदति १४
उन्मुक्तो वरुणस्य पाशः
इत्यभिधानीमुन्मुञ्चति १५
वरुणस्यर्तसदनिरसि इति
दक्षिणेनाहवनीयमासन्दीं प्रतिष्ठापयति १६
दक्षिणो
विमुक्तोऽनड्वान् भवति सव्योऽविमुक्तः १७
२०