१९

आदाय राजानमध्वर्युरुत्तिष्ठति उदायुषा स्वायुषा इति १
हरति उर्वन्तरिक्षम-न्विहि इति २
शकटस्य नीडे कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमास्तृणाति अदित्याः सदोऽसि इति ३
तस्मिन् राजानमासादयति अदित्याः सद आसीद इति ४
अथैनं वाससा पर्यानह्यति वनेसु व्यन्तरिक्षं ततान इति ५
उदु त्यं जातवेदसम् इति सौर्यर्चा कृष्णाजिनं प्रत्यानह्यति ६
उस्रावेतं धूर्षाहौ इत्यनड्वाहावुपाजति ७
धुरावभिमृशति यथा दर्शपूर्णमासयोः ८
वारुणम-सि इति शकटमाखिदति ९
वरुणस्त्वोत्तभ्नातु इत्युपस्तभ्नोति १०
वारुणमसि इति योक्त्रपाशं परिहरति ११ वरुणस्य स्कम्भनमसि इति शम्यामवदधाति १२
प्रत्यस्तो वरुणस्य पाशः इति बलीवर्दमभिदधाति १३
एवमेवोत्तर-मनड्वाहं युनक्ति १४
हरिणी पलाशशाखे शमीशाखे वा बिभ्रत् सुब्रह्मण्यो-ऽन्तरेषेऽवसर्पति १५
ततः सम्प्रेष्यति सोमाय राज्ञे क्रीताय प्रोह्यमाणायानुब्रूहि । ब्रह्मन् वाचं यच्छ । सुब्रह्मण्य सुब्रह्मण्यामाह्वय इति १६
त्रिरनूक्तायां प्रथमायाम् १७
१९