सोमविक्रयिणो राजानमपादत्ते स्वजा असि स्वभूरस्यस्मै कर्मणे जात ऋतेन त्वा
गृह्णाम्यृतेन नः पाहि इति १
क्रीते सोमेऽपोर्णुते २
यजमानो मैत्रावरुणाय
दण्डं प्रयच्छति ३
श्वःसुत्यायां मैत्रावरुणाय दण्डं प्रयच्छतीत्येकेषाम् ४
आह्रियमाणं राजानं यजमानोऽभिमन्त्रयते मित्रो न एहि सुमित्रधाः इति ५
यजमानस्योरौ दक्षिण आसादयति इन्द्र स्योरुमा विश
दक्षिणमुशन्नुशन्तँ स्योनः स्योनम् इति ६
पृच्छति यजमानोऽध्वर्युम् अध्वर्यवाशक्तवै इति ७
आशकाम
इत्यध्वर्युः ८
कथमाशक्तः इति यजमानः ९
विष्णुँ
स्तोममकृण्महि बृहती-छन्दाँ स्युक्ता यजूँ षि वि पर्वता
अजिहत सुतरुणा अपोऽवचारिषम् इत्य-ध्वर्युर्नियच्छति १०
यजमानः
सोमक्रयणीमावर्तयति रुद्र स्त्वा वर्तयतु इत्यनु-वाकशेषेण ११
तामन्यया गवा परिक्रीय यजमानस्य गोष्ठे विसृजति १२
पृषता
वरत्राकाण्डेनावक्षायँ सोमविक्रयिणं नाशयन्ति १३
लोष्टैर्घ्नन्तीत्येकेषां
लकुटैरित्येकेषाम् १४
१८