१७

हिरण्येन क्रीणाति शुक्रं ते शुक्रेण क्रीणामि इति १
भूय एवातः सोमो राजार्हति इति सोमविक्रय्याह २
भूय एवातः सोमो राजार्हति इत्यध्वर्युः ३
अजया क्रीणाति तपसस्तनूरसि इति ४
भूय एवातः सोमो राजार्हति इति सोम-विक्रय्याह ५
भूय एवातः सोमो राजार्हति इत्यध्वर्युः ६
धेन्वा क्रीणाति । ऋषभेण क्रीणाति । अनडुहा क्रीणाति । मिथुनाभ्यां क्रीणाति । वाससा क्रीणाति ७
दशभिः सम्पादयत्यपरिमितैर्वा ८
त्रिभिः क्रीणातीति विज्ञायते ९ चतुर्भिरेके समामनन्ति गवा हिरण्येनाजया वाससेति १० अप्येकयैवैकविँ शतिदक्षिणस्य सोमं क्रीणीयात् ११ अकूटा चेदकर्णाकाणाश्रोणासप्तशफारुणा पिङ्गाक्ष्येकहायनी । कल्याणगवी स्यादित्येके समामनन्ति १२
त्रि ँशता सहस्रदक्षिणस्य सोमं क्रीणीयाच्छतेन वाजपेयस्य द्वाभ्याँ राजसूयस्य सहस्रेणाश्वमेधस्येति विज्ञायते १३
सोमविक्रयिणो हिरण्यमपादाय शुक्ला-मूर्णास्तुकां यजमानाय प्रयच्छति अस्मे ज्योतिः इति १४
तां काले यजमानो दशापवित्रस्य नाभिं कुरुते १५
वलक्ष्याः पवित्रं कार्यम् । अमोतं कार्यमिति विज्ञायते १६
कृष्णामुपग्रथ्नाति इदमहँ सर्पाणां दन्दशूकानां ग्रीवां उप ग्रथ्नामि इति १७
तया सोमविक्रयिणं विध्यति सोमविक्रयिणि तमः इति १८
सोमक्रयणाननुदिशति स्वान भ्राज इत्यनुवाकशेषेण १९
१७