देव सूर्य सोमं क्रेष्यामस्तं ते प्रब्रूम । ऋतून् कल्पय दक्षिणाः कल्पय
यथर्तु यथादेवतम् इति १
अत्रैके राज्ञो निवपनँ समामनन्ति २
शकटेन
राज्ञोऽन्तिकं यान्ति अपि पन्थामगस्महि इति ३
उद्धृतपूर्वफलकं भवति
४
अभितो राजानं विमुच्य मुखेन प्रतिष्ठाप्याभिमन्त्रयते अँ शुना ते अँ शुः
पृच्यताम् इति ५
उत्तरेण राजानं चर्मणि द्विगुणं क्षौमं
प्राचीनग्रीवदशमुत्तरदशं वास्तीर्य
तस्मिन् सहिरण्येन पाणिना राजानं मिमीते अभि त्यं देवँ सवितारम्
इति ६
एकयैकयोत्सर्गं मिमीते ७
सर्वास्वङ्गुष्ठमुपनिगृह्णाति ८
यया
प्रथमं न तया पञ्चमम् । तयैवोत्तमम् ९
पञ्चकृत्वो यजुषा मिमीते
पञ्चकृत्वस्तूष्णीम् १०
प्रजाभ्यस्त्वा इत्यवशिष्टमुपसमूह्य वाससोऽन्तान्
समुच्चित्य क्षौमेणोष्णी-षेणोपनह्यति प्राणाय त्वा इति । व्यानाय त्वा
इत्यनुशृण्थति ११
विस्रस्या-वेक्षते प्रजास्त्वमनु प्राणिहि
प्रजास्त्वामनु प्राणन्तु इति १२
सोमविक्रयिणो
राजानं प्रत्तं यजमानोऽभिमन्त्रयते एष ते गायत्रो भाग इति मे सोमाय
ब्रूतात् इत्येतैर्मन्त्रैः १३
तत आह सोमविक्रयिन् क्रय्यस्ते
सोमा३
इति १४
क्रय्या३
इत्याह सोमविक्रयी १५
तं क्रीणाति सोमं ते
क्रीणाम्यूर्जस्वन्तं पयस्वन्तं वीर्यावन्तमभिमातिषाहम् ॥ गवा ते क्रीणानि
इति १६
सा व्याख्याता १७
भूय एवातः सोमो राजार्हति इति सोमविक्रय्याह १८
भूय एवातः सोमो राजार्हति इत्यध्वर्युः १९
१६