तामीक्षमाणो जुहोति जूरसि धृता मनसा इति १
अपरं चतुर्गृहीतं गृहीत्वा
शुक्रमस्यमृतमसि इति हिरण्यं घृतादुद्धरति २
वैश्वदेवँ हविः
इत्याज्य-मभिमन्त्रयते ३
प्रमुच्य हिरण्यमादित्यमुपतिष्ठते सूर्यस्य
चक्षुरारुहम् इति ४
सोमक्रयणीमभिमन्त्रयते चिदसि मनासि इति प्रतिपद्य
इन्द्रा य सोमम् इत्यन्तेन ५
अथास्या दक्षिणेन पदा दक्षिणानि षट्
पदान्यनुनिक्रामति वस्व्यसि ॥ रुद्रा सि इत्येतैर्मन्त्रैः ६
सप्तमं
पदमभिनिगृह्णाति बृहस्पतिस्त्वा सुम्ने रण्वतु इति ७
तस्मिन्
हिरण्यमुपास्यैतच्चतुर्गृहीतं जुहोति पृथिव्यास्त्वा
मूर्धन्ना जिघर्मि देवयजन इडायाः पदे घृतवति स्वाहा इति ८
यावद् घृतमनुविसृतं तावत् स्फ्येन परिलिखति परिलिखितँ रक्षः
परिलिखिता अरातयः इति ९
एवमेव कृष्णविषाणयानुपरिलिखति १०
यावत्त्मूतँ स्थाल्याँ संवपति अस्मे रायः इति ११
त्वे रायः
इत्यध्वर्युर्यजमानाय प्रयच्छति १२
तोते रायः इति यजमानः पत्न्यै १३
पत्न्यै पदं प्रदीयमानमद्वर्युरभिमन्त्रयते माहँ रायस्पोषेण
वि योषम् इति १४
सोमक्रयण्या पत्नी ँसङ्ख्यापयति सं देवि देव्योर्वश्या
पश्यस्व इति १५
पद उदपात्रमुपनिनयति उन्नम्भय पृथिवीम् इति १६
पदे सहिरण्यौ
पाणी प्रक्षाल्य गार्हपत्यस्य शीते भस्मनि पदतृतीयमुपवपति १७
एवमाहवनीये
तृतीयम् १८
तृतीयमक्षोपाञ्जनायावशिनष्टि १९
तत् पत्नी गृहेषु निधत्ते
२०
सहिरण्येन पाणिनादित्यमुपतिष्ठते २१
१५