प्रायणीयायास्तन्त्रं प्रक्रमयति १
तत्रैतानि न क्रियन्तेऽग्न्यन्वाधानं
व्रतोपायनं पत्नीसन्नहनमन्वाहार्य इति २
ये के च सोम इष्टिपशुबन्धाः
सर्वेष्वेवैतानि न क्रियन्ते ३
उदयनीयायामनूबन्ध्यायां व्रतोपायनं
पत्नीसन्नहनमिति क्रियन्ते ४
सर्वाण्युदवसानीयायां
क्रियन्तेऽन्यत्रान्वाहार्यात् ५
तत्रैषोऽत्यन्तप्रदेशः । यत्किं च प्रतते तन्त्रे
हविरागच्छति यानि कृतानि न तानि पुनः क्रियन्ते । यथा पशुपुरोडाशे
प्रयाजानूयाजा यानि चान्यान्येवँ रूपाणि भवन्ति ६
अदित्यै प्रायणीयं
चरुं निर्वपति ७
पयसि शृतो भवति ८
समानमा सादनात् ९
उद्धृत्य चरुँ
षड्ढोत्रासादयति १०
एतस्यामेव स्थाल्यां मेक्षणे निष्कासमिति
प्रज्ञातं निदधाति ११
सप्तदश सामिधेन्यो भवन्ति १२
समानमाज्यभागाभ्याम् १३
चतुर आज्यभागान् यजति पथ्याँ स्वस्तिं पुरस्तादग्निं दक्षिणतः सोमं
पश्चात् सवितारमुत्तरतः १४
हविषादितिं मध्ये १५
शंयुवन्ता
प्रायणीया सन्तिष्ठते १६
अत्रैके राज्ञो निवपनँ समामनन्ति १७
यत्
प्रायणीयाया ध्रौवमाज्यं ततो जुह्वां चतुर्गृहीत्वा दर्भेण हिरण्यं
निष्टर्क्यं बद्ध्वावदधाति इयं ते शुक्र तनूरिदं वर्चः इति १८
एषा सोमक्रयणी भवति । अकूटा चेदकर्णाकाणा-श्रोणासप्तशफारुणा
पिङ्गाक्ष्येकहायनी द्विहायनी वा । या
शुण्ठाधीलोधकर्णीं तया षोडशिनः सोमं क्रीणातीति
विज्ञायते १९
१४