क्षत्रियं याचित्वोदकान्ते देवयजनमध्यवस्यति यदुदीचीनप्राचीनप्रवणम्
एदमगन्म देवयजनं पृथिव्याः इति १
न वा देवयजनं याचेत् २
आदित्य-मेवैतेन मन्त्रेणोपतिष्ठेत सक्षेदं पश्य । विधर्तरिदं
पश्य । नाकेदं पश्य । रमतिः पनिष्ठा । ऋतं वर्षिष्ठम् । अमृता
यान्याहुः । सूर्यो वरिष्ठो अक्षभि-र्विभाति । अनु द्यावापृथिवी
देवपुत्रे इति ३
न पुरस्ताद्देवयजनमात्र-मभ्यतिरिच्येत ४
आदित एवैके
देवयजनस्याध्यवसानँ समामनन्ति ५
पुरोहविषि देवयजने याजयेदिति
काम्यानि देवयजनानि ब्राह्मणव्याख्यातानि भवन्ति ६
कौत्सात्सोमं
क्रीणीतेति विज्ञायते ७
शूद्रा दित्येकेषाम् ८
उत्तरवेद्यां
वोपरवाणां काल आनडुहँ रोहितं चर्म
प्राचीनग्रीवमुत्तरलोमास्तीर्य
तस्मिन् राजानं न्युप्योत्तरत उदकुम्भं निधाय सम्प्रेष्यति सोमविक्रयिन्
सोमँ शोधय इति ९
परिश्रिते सोमविक्रयी राजानं विचिनोति १०
न
विचीयमानस्योपद्र ष्टारो भवन्ति ११
१३