सनीहारान् सँ शास्ति १
ते यल्लभन्ते तत् प्रतिगृह्णाति देवः सविता
वसोर्वसुदावा रास्वेयत्सोमा भूयो भर । मा पृणन् पूर्त्या
वि राधि माहमायुषा ॥ चन्द्र मसि मम भोगाय भव इत्येतैर्मन्त्रैर्यथारूपम् २
सावित्रेणान्यत् प्रतिगृह्णाति ३
द्वादशाहं दक्षिणार्थं भिक्षते ४
वायवे
त्वा इति नष्टामनुदिशति ५
वरुणाय त्वा इत्यप्सु मग्नाम् ६
निरृत्यै त्वा
इत्यवसन्नाम् ७
रुद्रा य त्वा इति महादेवहताम् ८
इन्द्रा य त्वा इति
मेष्कहतां या वा सँ शीर्येत ९
मरुद्भ्यस्त्वा इति ह्रादुनिहताम्
१०
इन्द्रा य त्वा प्रसह्वने इति याँ सेना अभीत्वरी विन्देत ११
यमाय त्वा
इत्यविज्ञाते १२
यद्यनुप्रदिष्टामधिगच्छेन्न गोषु चारयेत् १३
अथ यदि
प्रयियासेत् पृथगरणीष्वग्नीन् समारोप्य रथेन प्रयायात् १४
यदि रथो न विद्येत रथाङ्गमादाय प्रयायात् १५
भद्रा दभि श्रेयः प्रेहि
इत्याहवनीय-मभिमन्त्रयते १६
देवीरापोऽपां नपात् इत्यपोऽतिगाहते १७
अच्छिन्नं तन्तुं पृथिव्या अनु गोषम् इति लोष्टं
विमृद्गँ स्तरति १८
सिकता लोष्टं वा मध्ये पारे च न्यस्यति
पृथिव्या सं भव इति १९
अथ यदि नाव्यास्तरेदरणीश्च रथं चादाय तरेत् २०
यदि
रथो न विद्येत रथाङ्गमादाय तरेत् २१
१२