११

उद्यन्तमादित्यमुपतिष्ठते याः पशूनामृषभे वाचो अग्रे ता अग्रे सूर्यः शुक्रो अग्रे । ता वः प्रहिणोमि यथाभागमत्र शिवा नस्ताः पुनरायन्तु वाचः इति १
उदित आदित्ये दुग्धे व्रते व्रतं कृणुत इति वाचं विसृजति २
एवं मध्यन्दिने व्रतयति ३ अधिवृक्षसूर्ये व्रतप्रदो वाचं यमयति अग्नीञ्ज्योतिष्मतः कुरुत दीक्षित वाचं यच्छ पत्नि वाचं यच्छ इति ४
एवमेवात ऊर्ध्वम् ५
मध्यरात्रे मध्यन्दिने व्रतयति ६ एवमुपोदयम् ७
अधिवृक्षसूर्ये व्रतप्रदो वाचं यमयति ८
न सुत्येऽहनि व्रतं विद्यत इत्येकम् । विद्यत इत्यपरम् ९ स्वप्स्यन्नाहवनीयम-भिमन्त्रयते अग्ने त्वँ सु जागृहि वयँ सु मन्दिषीमहि इति १०
प्रबुध्य जपति त्वमग्ने व्रतपा असि इति प्रतिपद्य विश्वे देवा अभि मामाववृत्रन् इत्यन्तेन ११
त्वमग्ने व्रतपा असि इति ब्रूयात् स्वप्स्यन् सुप्त्वा वा प्रतिबुध्य यदि वादीक्षितवाचोऽवावदेत् १२
एष एवात ऊर्ध्व ँ! संवेशनप्रतिबोधनानां कल्पो भवति १३
पूषा सन्या सोमो राधसा इति १४
११