यद्यन्यत्र कृष्णाजिनादासीत देवाञ्जनमगन् यज्ञस्तस्य माशीरवतु
इत्येतद-भिमन्त्रयेत १
नास्य नाम गृह्णीयात् । न
पापं कीर्तयेत् । नैनमभिवदेत् । दीक्षित एवाभिवदेत् २
नास्यान्नमद्यादाग्नीषोमीयात् ३
कामँ
संस्थिते-ऽग्नीषोमीये हुतायां वा वपायां क्रीते वा राजनि ४
अपि वादित
एव यज्ञा-र्थमुत्कल्प्य दीक्षेत ५
अथेतरतो भुञ्जीरन् ६
तान्येतानि
व्रतानूर्ध्वं दीक्षणी-यायाः प्रक्रामन्ति ७
अथेमानि द्र
व्योपयोगानि यथैतत् कृष्णविषाणया कण्डू-यनं कृष्णाजिन आसनं दण्डधारणमिति ८
पयोव्रता पत्नी ब्रह्मचारिणी भवति ९
एष्ट्री स्थः इति
चतस्रोऽङ्गुलीरुत्सृजति १०
दुग्धे
व्रते नक्षत्रं दृष्ट्वा व्रतं कृणुत इति वाचं विसृजति ११
जागर्त्येताँ
रात्रिम् १२
यवागू राजन्यस्य व्रतमामिक्षा वैश्यस्य पयो ब्राह्मणस्य १३
तान्येतानि दैक्षाणि व्रतानि १४
सर्वेषां त्वेवोपसत्सु स्तनविभागः
१५
९