०८

न पुरा सोमस्य क्रयादपोर्ण्वीत १
न पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणा-मवचृतेत् २
कृष्णविषाणया कण्डूयते ३
अपिगृह्य स्मयते ४
अमेध्यं दृष्ट्वा जपति अबद्धं मनो दरिद्रं चक्षुः सूर्यो ज्योतिषाँ श्रेष्ठो दीक्षे मा मा हासीः इति ५ अभिवृष्यमाणो जपति उन्दतीर्बलं धत्तौजो धत्त बलं धत्त मा मे दीक्षां मा तपो निर्वधिष्ट इति ६
न दीक्षितविमितात् प्रवसेत् ७
नैनमन्यत्र दीक्षित-विमितात् सूर्योऽभ्युदियान्नाभ्यस्तमियात् ८
दक्षिणत आहवनीयमभ्यावृत्य शयीत ९
न न्यङ् शयीत नोत्तानः । नाग्नेरपपर्यावर्तेत १० यथर्तु स्मयेत । यथर्तु निष्क्रामतीति विज्ञायते ११
यथाकालं ब्रुवते १२ न निष्ठीवेन्न दतो धावेन्न दिवा विचारं कुर्यान्न मूत्रम् १३
यदि कुर्याच्छायायां कुर्यात् १४
अपो मुञ्चामि न प्रजामँ होमुचः स्वाहाकृताः पृथिवीमाविशत इति मूत्रं विसृजति १५
न पचति न ददाति न काञ्चनाहुतिं जुहोत्यन्यत्र सोमाङ्गेभ्यः १६
कर्शेदात्मानं यावदस्य कृष्णमक्ष्योर्नश्यति १७
कृष्णाजिनान्न छिद्येत । एवं दण्डात् १८