चमसं व्रतप्रदानमभिमन्त्रयते उरुव्यचा असि जनधाः सपत्नो मा पाह्यस्य
यज्ञस्योदृचः इति १
अथाङ्गुलीर्न्यञ्चति । स्वाहा यज्ञं मनसा
इति द्वे । स्वाहा द्यावापृथिवीभ्याम् इति द्वे । स्वाहोरोरन्तरिक्षात् इति
द्वे २
स्वाहा यज्ञं वातादारभे इति मुष्टी करोति ३
अथैनँ सम्भारयजूँ षि
वाचयति अग्निर्यजुर्भिः इति ४
ततो वाचं यच्छत्या
नक्षत्राणामुदयात् ५
यदि पुरा
नक्षत्रेभ्यो वाचं विसृजेद् वैष्णवीमाग्नावैष्णवी
ँसारस्वतीं बार्हस्पत्यामित्यनूच्य पुनरेव वाचं यच्छेत् ६
त्वमग्ने
व्रतपा असि इति ब्रूयाद् यदि मुष्टी वाचं वा विसृजेत् ७
अथैनमावेदयति
अदीक्षिष्टायं ब्राह्मणोऽसावामुष्यायणोऽमुष्य पुत्रोऽमुष्य पौत्रोऽमुष्य
नप्तामुष्याः पुत्रोऽमुष्याः पौत्रोऽमुष्या नप्ता इति । त्रिरुपाँ शु
त्रिरुच्चैः ८
यः कश्चन दीक्षेत ब्राह्मण इत्येवैनमावेदयेत् ९
अपराह्णे
दीक्षते १०
यं कामयेत तपस्वी स्यादिति तं प्रातर्दीक्षयेत् ११
उत्थाय कृष्णाजिनं प्रतिमुञ्चति १२
स एतद् व्रतं चरति । न माँ
समश्नाति न स्त्रियमुपैति नोपर्यास्ते जुगुप्सेतानृतात् १३
परिह्वालं
मानुषीं वाचं वदति चनसितं विचक्षणं वानुषजन् १४
चनसित इति
ब्राह्मणमामन्त्रयीत । विचक्षण इति
राजन्यवैश्याविति विज्ञायते १५
ब्राह्मणेन चैव क्षत्रियेण वा
वैश्येन वा सम्भाषेत १६
तत एवैनमनुप्रयुज्येरन् १७
यद्येनँ शूद्रे ण
संवाद उपपद्येतैतेषामेवैकं ब्रूयात् इमं नु विचक्ष्व इति १८
७