आरूढो जपति इमाँ सु नावमारुहम् इत्येताम् १
विष्णोः शर्मासि शर्म यजमानस्य
शर्म मे यच्छ इत्यँ सं प्रोर्णुते २
नक्षत्राणां मातीकाशात् पाहि
इत्युष्णीषेण शिरो वेष्टयते ३
सशिरो वा प्रोर्णुते
यथासुष्ठु ४
पत्न्याः शिरसि कुम्बकुरीरं कल्पयति ५
जालं
कुरीरमित्याचक्षते ६
कृष्णानां जीवोर्णानां भवतीति विज्ञायते ७
अथैनां क्षौमेण वाससा प्राचीनमात्रा परिधापयति ८
ऊर्ध्ववास्यं
ब्रुवते ९
यजमानमन्यतरतःपाशया मौञ्ज्या मेखलया त्रिवृता पृथ्व्या मध्यतः
सन्नह्यति ऊर्गस्याङ्गिरसी इति १०
उत्तरेण नाभिं निष्टर्क्यं ग्रन्थिं
कृत्वा दक्षिणतो नाभेः पर्यूहते ११
योक्त्रेण पत्नी ँसन्नह्यति
यथा दर्शपूर्णमासयोः सं त्वा नह्यामि इत्येतया १२
अथास्मै त्रिवलिं
पञ्चवलिं वा कृष्णविषाणां प्रदक्षिणावर्तां प्रयच्छति इन्द्र स्य
योन्निरसि मा मा हि ँसीः इति १३
तामेते-नैव मन्त्रेणाबध्नाति १४
तया
वेदेर्लोष्टमुद्धन्ति कृष्यै त्वा सुसस्यायै इति १५
सुपिप्पलाभ्यस्त्वौषधीभ्यः
इति शिरसि कण्डूयते यदास्य कण्डूयति १६
विषाणे विष्यैतं ग्रन्थिं यदस्य
गुल्फितँ हृदि मनो यदस्य गुल्फितम् इत्यङ्गेषु १७
अथास्मा औदुम्बरं
दीक्षितदण्डं प्रयच्छति मुखेन सम्मितम् ऊर्ध्वसदसि वानस्पत्यः
सुद्युम्नो द्युम्नं यजमानाय धेहि इति १८
यः कश्च यज्ञियो
वृक्षः फलग्रहिस्तस्य कार्य इत्येकेषाम् १९
तं प्रतिगृह्णाति
सूपस्था अद्य देवो वनस्पतिः इति २०
६