अथैनमेकविँ शत्या दर्भपुञ्जीलैः सप्तभिः सप्तभिस्त्रिः पवयति चित्पतिस्त्वा
पुनातु ॥ वाक्पतिस्त्वा पुनातु ॥ देवस्त्वा सविता पुनातु इत्येतैर्मन्त्रैः
१
अच्छिद्रे ण पवित्रेण इत्येतं मन्त्रँ सर्वत्रानुषजति २
द्विरूर्ध्वं
नाभेरुन्मार्ष्टि सकृदवाङ् ३
पवमानः सुवर्जनः इत्येतमनुवाकं
पाव्यमानो जपति ४
यद्देवा देवहेडनम् इति च । तस्य ते
पवित्रपते पवित्रेण यस्मै कं पुने तच्छकेयम् इति चैतं
मन्त्रम् ५
आ वो देवास ईमहे इति पूर्वया द्वारा प्राग्वँ शं
प्रविश्यापरेणाहवनीयमतिक्रम्य
दक्षिणतस्तिष्ठन्नाहवनीयमभिमन्त्रयते
इन्द्रा ग्नी द्यावापृथिवी इत्यनुवाकशेषेण ६
तस्यैष एव सञ्चरो भवत्या
सुत्यायाः ७
अत्रैके दीक्षणीयामिष्टिँ समामनन्ति ८
यद्दीक्षणीयायां ध्रौवमाज्यं ततः स्रुवेण चतस्रो
दीक्षाहुतीर्जुहोति आकूत्यै प्रयुजेऽग्नये स्वाहा
इत्येतैर्मन्त्रैः ९
स्रुचा पञ्चमीम् आपो
देवीर्बृहतीर्विश्वशम्भुवः इति १०
चतुर्गृहीतेन स्रुचं
पूरयित्वा द्वादशगृहीतेन वा पूर्णाहुतिं जुहोति विश्वे
देवस्य नेतुः इत्येतया ११
बिलावकाशं कृत्वा जुहोतीत्येकेषाम्
१२
कृष्णाजिनस्य दक्षिणं पूर्वपादं परिषीव्यति १३
द्वे वा समीची माँ
ससँ हिते कृत्वा १४
अन्तर्वेदि कृष्णाजिनं
प्राचीनग्रीवमुत्तरलोमास्तीर्य
शुक्लां च कृष्णां च राजिं यजमानः सम्मृशति ऋक्सामयोः शिल्पे स्थः इति १५
भसत्तो जान्वक्न आरोहति इमां धियँ शिक्षमाणस्य ॥ सुत्रामाणम् इति
द्वाभ्याम् १६
५