कुण्डे स्नातीत्येकेषाम् १
शङ्खिनि हृदे हिरण्यमवधाय आपो अस्मान् मातरः
शुन्धन्तु इति स्नात उद्गाहते उदाभ्यः शुचिरा पूत एमि इति २
अप
आचम्य क्षौमं वासोऽहतमन्तरं परिधत्ते सोमस्य तनूरसि तनुवं मे पाहि
इति ३
सोमस्य नीवीरसि इति नीवीमनुपरिकल्पयते ४
यदस्य प्रतिप्रियमन्नं
तदश्नाति ऊर्गसि ५
सर्पिर्मिश्रं दधि मधु चाभ्युपसेकमाशितो भवति ६
कनीयःकनीयोऽत ऊर्ध्वं व्रतयति ७
महीनां पयोऽसि इति दर्भपुञ्जीलाभ्यां
नवनीतँ संयुत्य त्रिः पराचीनमभ्यङ्क्ते वर्चोधा असि वर्चो मयि धेहि
इति ८
मुखमग्रेऽनुलोममङ्गानि ९
स्वभ्यक्तो भवति १०
त्रैककुदेनाञ्जनेनाङ्क्ते
११
यदि त्रैककुदं नाधिगच्छेद् येनैव केन चाञ्जनेनाञ्जीत १२
सतूलया शरेषीकया
दर्भेषीकया दर्भपुञ्जीलेन वा दक्षिणं पूर्वमनिधावमानः वृत्रस्य कनीनिकासि
चक्षुष्पा असि चक्षुर्मे पाहि इति । त्रिर्दक्षिणं द्विरुत्तरम् १३
४