०३

प्राचीनवँ शं विमितं मिन्वन्ति पुरस्तादुन्नतम् १
तस्य प्रतिदिशं द्वाराणि भवन्ति । उत्तरपूर्वमवान्तरदेशं प्रति पञ्चमं द्वारम् २ स्रक्तिष्वारोकान् कुर्वन्तीत्येकेषाम् ३
तस्मिन् सप्तहोतारं मनसानुद्रुत्याहवनीये सग्रहं जुहोति ४ दीक्षणीयामिष्टिं निर्वपति ५ आग्नावैष्णवमेकादशकपालमाग्नावैष्णवं वा घृते चरुम् ६
पत्नीसंयाजान्ता दीक्षणीया सन्तिष्ठते ७
यत् प्रागग्नीषोमीयात् सर्वं तदुपाँ शु क्रियते ८
नात्रान्वाहार्यो भवति ९
उत्तरेण प्राग्वँ शं परिश्रिते यजमानः केशश्मश्रु वापयते १०
तस्य दक्षिणं गोदानमुनत्ति आप उन्दन्तु जीवसे इति ११
त्रेण्या शलल्या विनीय त्रीणि दर्भपुञ्जीलान्यूर्ध्वाग्राण्युपनियच्छति ओषधे त्रायस्वैनम् इति १२
स्वधिते मैनँ हि ँसीः इति स्वधितिनाधिनिदधाति १३
देवशूरेतानि प्र वपे इति प्रवपति १४ स्वस्त्युत्तराण्यशीय इत्येतं मन्त्रं यजमानो जपति १५
श्मश्रूण्यग्रे वापयतेऽथोपपक्षावथ केशानिति विज्ञायते १६ औदुम्बरेण दन्तधावनेन दतो धावते लोहितमनागमयन् १७
दन्तान् प्रक्षा-ल्याभ्यन्तरं नखानि कारयते १८
सव्यस्याग्रे कनिष्ठिकातः । अथ दक्षिणस्य १९
हस्त्यान्यग्रेऽथ पद्यानि २०
यल्लोमशमवकावलं तीर्थं तस्मिन् स्नाति २१
स्थावराः सन्तता भवन्ति २२