रश्मयो देवा दैव्याश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवः सन्तु इत्युपाँ शु
दैव्याँ श्चमसाध्वर्यून् वृत्वा असौ चासौ च मानुषः
इत्युच्चैर्मानुषान् वृणीते १
यज्ञोपवीतं कृत्वाप आचम्य प्राङ् वोदङ् वा तिष्ठन्
जपत्यासीनो वा भूर्भुवः सुवः ॥ आयुर्मे प्रावोचो वर्चो मे
प्रावोचो यशो मे प्रावोचः श्रियं मे प्रावोचः ॥ आयुष्मानहं वर्चस्वी
यशस्वी श्रीमानपचितिमान् भूयासम् ॥ भूर्भुवः सुवः ॥ सर्वं
भूयासम् इत्युक्त्वा प्रति वा चष्टे प्रति वा जानीते २
स
प्रतिज्ञाय देवो देवमेतु सोमः सोममेत्वृतस्य पथा ॥ एमि विहाय
दौष्कृत्यम् इत्यभि-प्रव्रजति ३
पद्वा नामासि स्रुतिः सोमसरणी
सोमं गमेयम् इति पन्थानमातिष्ठते ४
पितरो भूः इति पितॄन् दक्षिणामुख
उपतिष्ठते ५
अथैनं गृहानोह्याह्वयति ६
आच्छाद्य चैनं कुण्डलिनं
करोति ७
एकधनं चास्मै ददाति ८
अमा-वास्यायां दीक्षते पौर्णमास्यां वा ९
तस्यापरिमिता दीक्षाः संवत्सरपरार्ध्याः १०
न दर्शपूर्णमासाभ्यामनिष्ट्वा
सोमेन यजेत ११
नाग्निष्टोमेनानिष्ट्वेतरैः क्रतुभिरिति १२
अतिरात्रमेके
प्रथमं यज्ञँ समामनन्ति १३
न रथन्तरपृष्ठमकृत्वा बृहत्पृष्ठं कुर्वीत १४
अमावास्यायां पौर्णमास्यां वा सुत्यमहर्भवति १५
२