०२

रश्मयो देवा दैव्याश्चमसाध्वर्यवस्ते मे चमसाध्वर्यवः सन्तु इत्युपाँ शु दैव्याँ श्चमसाध्वर्यून् वृत्वा असौ चासौ च मानुषः इत्युच्चैर्मानुषान् वृणीते १ यज्ञोपवीतं कृत्वाप आचम्य प्राङ् वोदङ् वा तिष्ठन् जपत्यासीनो वा भूर्भुवः सुवः ॥ आयुर्मे प्रावोचो वर्चो मे प्रावोचो यशो मे प्रावोचः श्रियं मे प्रावोचः ॥ आयुष्मानहं वर्चस्वी यशस्वी श्रीमानपचितिमान् भूयासम् ॥ भूर्भुवः सुवः ॥ सर्वं भूयासम् इत्युक्त्वा प्रति वा चष्टे प्रति वा जानीते २
स प्रतिज्ञाय देवो देवमेतु सोमः सोममेत्वृतस्य पथा ॥ एमि विहाय दौष्कृत्यम् इत्यभि-प्रव्रजति ३
पद्वा नामासि स्रुतिः सोमसरणी सोमं गमेयम् इति पन्थानमातिष्ठते ४
पितरो भूः इति पितॄन् दक्षिणामुख उपतिष्ठते ५
अथैनं गृहानोह्याह्वयति ६
आच्छाद्य चैनं कुण्डलिनं करोति ७
एकधनं चास्मै ददाति ८
अमा-वास्यायां दीक्षते पौर्णमास्यां वा ९ तस्यापरिमिता दीक्षाः संवत्सरपरार्ध्याः १०
न दर्शपूर्णमासाभ्यामनिष्ट्वा सोमेन यजेत ११
नाग्निष्टोमेनानिष्ट्वेतरैः क्रतुभिरिति १२
अतिरात्रमेके प्रथमं यज्ञँ समामनन्ति १३
न रथन्तरपृष्ठमकृत्वा बृहत्पृष्ठं कुर्वीत १४ अमावास्यायां पौर्णमास्यां वा सुत्यमहर्भवति १५