वसन्ते ज्योतिष्टोमेन यक्ष्यमाणो ब्राह्मणानार्षेयानृत्विजो वृणीते यूनः
स्थविरान् वानूचानाननङ्गहीनानूर्ध्ववाचश्चतुरः १
सर्वान् वा २
चतुरो
वृणानो महर्त्विजो वृणीतेऽध्वर्युं ब्रह्माणँ होतारमुद्गातारमिति ३
आदित्यो देवो दैव्योऽध्वर्युः स मेऽध्वर्युरस्तु इत्युपाँ शु
दैव्यमध्वर्युं वृत्वा असौ मानुषः इत्युच्चैर्मानुषं वृणीते ४
चन्द्र
मा देवो दैव्यो ब्रह्मा स मे ब्रह्मास्तु इत्युपाँ शु दैव्यं ब्रह्माणं
वृत्वा असौ मानुषः इत्युच्चैर्मानुषं वृणीते ५
अग्निर्देवो दैव्यो होता स
मे होतास्तु इत्युपाँ शु दैव्यँ होतारं वृत्वा असौ मानुषः
इत्युच्चैर्मानुषं वृणीते ६
पर्जन्यो देवो दैव्य
उद्गाता स म उद्गातास्तु इत्युपाँ शु दैव्यमुद्गातारं वृत्वा असौ मानुषः
इत्युच्चैर्मानुषं वृणीते ७
सदस्यं महर्त्विजं पञ्चमं कौषीतकिनः
समामनन्ति ८
स कृता-कृतकर्मणामुपद्र ष्टा भवति ९
तं वृणीते १०
आकाशो देवो दैव्यः सदस्यः स मे सदस्योऽस्तु इत्युपाँ शु दैव्यँ
सदस्यं वृत्वा असौ मानुषः इत्युच्चैर्मानुषं वृणीते ११
आपो
देवीर्दैव्या होत्राशँ सिनस्ते मे होत्राशँ सिनः सन्तु इत्युपाँ शु
दैव्यान् होत्राशँ सिनो वृत्वा असौ चासौ च मानुषः इत्युच्चैर्मानुषान्
वृणीते १२
१