१९

यदि दैवते वावदाने वा याज्यानुवाक्ये वा विपरिहरेयुर्यदस्य गृहेषु चित्रं धनं तद्दद्यात् १
यद्याहुतिः स्कन्देदाग्नीध्रं ब्रूयात् जुहुधि इति २ ताँ सोऽञ्जलिना जुहोति अग्नेस्त्वास्ये जुहोमि मा यजमानो रिपन्मा यज्ञपत्नी मा यज्ञनीः इति । अमुष्मै त्वास्ये जुहोमि इति वा ३
यस्यै देवतायै हुतं भवति तस्यै पूर्णपात्रं दद्यात् ४
यस्यै देवतायै गृहीतमहुतँ स्कन्देद् यस्य वा देवतामन्तरियुर्यदस्य गृहेषु पुष्कलं धनं तद्दद्यात् ५
यद्याहुती विपरिहरेदथैतां प्रायश्चित्तिं जुहुयात् त्वं नो अग्ने ॥ स त्वं नो अग्ने इति ६
एते एवान्तरये सर्वत्र विपर्यये च जुहुयात् ७
यदि पुरोडाशः सं वा विजेतोद्वा पतेत् तमुद्वास्य बर्हिष्यासा-द्यैतेनाभि च घारयेदभि च मन्त्रयेत

किमुत्पतसि किमुत्प्रोष्ठाः शान्तः शान्तेरिहागहि ।

अघोरो यज्ञियो भूत्वासीद सदनँ स्वम् ॥

मा हि ँसीर्देवप्रेषित आज्येन तेजसाज्यस्व मा नः किञ्चन रीरिषः ।

योगक्षेमस्य शान्त्या अस्मिन्नासीद बर्हिषि ॥

इति ८
भूत्वा प्रभवति यजमानो यस्यैतां यज्ञे प्रायश्चित्तिं कुर्वन्तीति विज्ञायते प्रायश्चित्तिं कुर्वन्तीति विज्ञायते ९
१९

इति नवमः प्रश्नः