अथ यदि सर्वाण्येव हवी ँषि नश्येयुर्वा दुष्येयुर्वाज्येनैनानि
प्रतिसङ्ख्याय तयाज्यहविषेष्ट्या यजेत १
अतोऽन्यामिष्टिमनुल्बणां तन्वीत २
यज्ञेन हि यज्ञस्य प्रायश्चित्तिं कुर्वन्तीति विज्ञायते ३
कथं
दुष्टँ हविर्विद्यात् । यदार्याणां धर्मज्ञानां धर्मकामानामभोजनीयं न तेन
देवान् यजेत ४
यद्धविर्दुःशृतं तद्यम-देवत्यम् । यममेव तद्गच्छतीति
विज्ञायते ५
सँ स्थाप्य तद्धविरन्वाहार्यपचने चतुःशरावमोदनं
पक्त्वा चतुर्भ्यो ब्राह्मणेभ्यो जीवतण्डुलमिवोपहरेत् ६
तत्रापि भार्गव एकः प्राशितॄणाँ स्यात् ७
यद्यादिष्टां
दक्षिणामन्तरियादुर्वरां प्रतिष्ठितां दद्यात् ८
योऽदक्षिणेन यज्ञेन यजेत स यज्ञः प्रक्षामः । अना-र्युर्यजमानः
स्यात् ९
उर्वराँ सस्यवतीं दद्यात् १०
यद्यभागां देवतामा-वाहयेदाज्येनैनां
यथोढां यजेत ११
भागिनीमन्तरितां यत्र स्मरेत् तदुपोत्थाया-वाहयेत् १२
यद्वो देवा अतिपादयानि इत्यत्राहुतिं जुहुयात् १३
१८