यो ब्रह्मचारी स्त्रियमुपेयात् स रौद्रं गर्दभमालभेत १
तस्यावदानैरप्सु
प्रचरन्ति २
नास्य वपया चरन्ति न पशुपुरोडाशो भवति ३
इडान्तो भवति
शंयुवन्तो वा ४
नैरृतः प्राजापत्यो वा ५
यस्य हविः क्षायति तं यज्ञं
निरृतिर्गृह्णाति ६
यदुच्छिष्टँ स्यात् तेन शेषँ सँ स्थापयेत् ७
यज्ञो हि यज्ञस्य प्रायश्चित्तिः ८
यं द्विष्यात् तस्मै तां दक्षिणां
दद्यात् ९
यथा कथा च क्षायेत् प्रायश्चित्तमेव स्यादित्याश्मरथ्यः
। यद्यवदानेभ्यो न प्रभवेदित्यालेखनः १०
अपो दुष्टँ हविरभ्यवहरन्तीति
विज्ञायते ११
यद्यप्रत्तदैवतँ
हविर्व्यापद्येतापस्तदभ्यवहृ-त्यान्यत्
तद्दैवतँ हविर्निर्वपेत् १२
तत्र स्रुगादानप्रभृतयो मन्त्रा अभ्यावर्तेरन्
१३
अथ यदि प्रत्तदैवतमाज्येन शेषँ सँ स्थापयेदित्येकम् । तूष्णीकँ
हवि-रभ्युदाहरेदित्यपरम् १४
१७