१६

यदि कपालं भिद्येत तत् सन्दध्यात् गायत्र्या त्वा शताक्षरया सन्दधामि इति १
अथैनदपोऽभ्यवहरेत् अभिन्नो घर्मो जीरदानुः इति २
तत एतामाहुतिं जुहोति त्रयस्त्रिँ शत् तन्तवः इत्येतया ३
ततोऽन्यत् कपालँ संस्कृत्य कपालेष्वपिसृजेत् घर्मो देवाँ अप्येतु इति ४
इति वै खलु यदि प्रागुपधानाद् भिद्येत ५
अथ यद्युपहितानामेतेनैव मन्त्रेणोपदध्यात् ६
यदि कपालं नश्येदाश्विनं द्विकपालं निर्वपेद् द्यावापृथिव्यमेककपालम् ७
भागवो होता भवति । एकहायनो दक्षिणा ददातीति विज्ञायते ८
यथा कथा च नश्येत् प्रायश्चित्तमेव स्यादि-त्याश्मरथ्यः । उपयुक्तानां प्राग्विमोकादित्यालेखनः ९
यदि पत्नीः संयाजयन् कपालमभिजुहुयात् वैश्वानरं द्वादशकपालं निर्वपेत् १० सिद्धमिष्टिः सन्तिष्ठते ११
एतामेव निर्वपेदमावास्यां पौर्णमासीं वातिपाद्य १२
एतां यदनिष्ट्वाग्रयणेन नवमश्नीयात् १३
यस्य यमौ जायेयातां गावौ वा पुरुषौ वा वैश्वानरं द्वादश-कपालं निर्वपेत् १४
तस्य त्रिष्टुभौ याज्यानुवाक्ये भवतो जगत्यौ वा १५
रौद्रं वास्तुमयं चरुं निर्वपेद्यस्य रुद्र ःपशून् शमायेत १६
तया निषादस्थपतिं याजयेत् १७ कृष्णाजिनं वा कूटं वाकर्णो वा गर्दभो हरिणो वा हरिणपृणाका वा शफकश्यामाकपात्रौ वा द्वे वा कम्बुशूर्पे दक्षिणेति विज्ञायते १८
१६