१५

दक्षिणाप्रागग्रैर्दर्भैरग्नीन् परिस्तृणाति १
अधस्तात् समिधं धारयन्नुद्द्रवति २
सोमं पितृमन्तं पूर्वस्यामाहुत्यामुपलक्षयत्यग्निं कव्यवाहनमुत्तरस्याम् ३
पात्रनिर्णेजनमुदकं दक्षिणा प्रसिञ्चेयुः ४
ब्राह्मणाय यज्ञायुधानि दद्युः ५ अपोऽभ्यवहरेयुः ६
अमैव पुत्रस्य दृषत् स्यादायसं च ७ यस्याज्यमनुत्पूतँ स्कन्देच्छिन्दत् प्राणि दद्यात् ८ यद्युत्पूतं यदस्य गृहेषु चित्रं धनं तद्दद्यात् ९ एतदेवैकेषां विपरीतवत् । अनुत्पूते चित्रमुत्पूते छिन्दत् १० अथ यदि स्रुग्गतँ स्कन्देत् यत्र स्कन्देत् तत् प्राञ्चं प्रादेशं निदध्यात् भूपतये स्वाहा इति । भुवनपतये स्वाहा इति दक्षिणाप्राञ्चम् । भूतानां पतये स्वाहा इति प्रत्यञ्चम् । भूताय स्वाहा इत्युदञ्चम् ११
अथैनत् सँ सिञ्चेदित्याश्मरथ्यः । सं त्वा सिञ्चामि इत्येतयानुमन्त्रयेतेत्यालेखनः १२
भूपतये स्वाहा भुवनपतये स्वाहा भूतानां पतये स्वाहा इति स्कन्नमनुमन्त्रयेतेत्येकेषाम् १३
न किं चन हविरधिकृत्य वदति १४
देवाञ्जनमगन् यज्ञस्तस्य माशीरवतु इत्येनद-भिमन्त्रयेतेत्येकेषामाज्यादनन्तरं वदति १५ यदि प्रणीताः स्कन्देयुः आपो हि ष्ठा मयोभुवः इति तिसृभिर्गृहीत्वा ततं म आपः इत्याहुतिं जुहुयात् १६
१५