१४

अग्नये तन्तुमते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्निहोत्रं विलुप्येत १ आग्ना-वैष्णवमेकादशकपालं निर्वपेद्यमन्यस्याग्निषु याजयेयुर्यो वान्यस्याग्निषु यजेत २
अग्नयेऽग्निवते पुरोडाशमष्टाकपालं निर्वपेद्यस्याग्नावग्निमभ्युद्धरेयुः ३
त्रयस्त्रिँ शत्तन्तवः इत्येतया जुहुयाद्यस्याग्निहोत्रेऽधिश्रिते हविषि वा निरुप्ते पुरुषो वा श्वा वानो वा रथो वान्तराग्नी वीयादिति विज्ञायते ४
यस्यानो वा रथो वान्तराग्नी वीयादित्येकेषाम् ५
न कालमवधारयति ६
ततोऽत्रापो-ऽन्वतिषिच्य गामन्वत्यावर्तयेत् ७
इदं विष्णुर्वि चक्रमे इति पदँ संलोपयेत् ८ अनुगमयित्वाहवनीयमन्यं प्रणयेत्

यदग्ने पूर्वं प्रभृतं पदँ हि ते सूर्यस्य रश्मीनन्वाततान ।

तत्र रयिष्ठामनुसम्भरैतँ सं नः सृज सुमत्या वाजवत्या ॥

त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः ।

त्वया यज्ञं वितन्वते ॥

इति ९
ततोऽग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेत् १० पथोऽन्तिका-द्बर्हिराहरेत् ११
अनड्वान् दक्षिणा १२
सिद्धमिष्टिः सन्तिष्ठते १३
एतामेव निर्वपेत् स्तोत्रे मूढे । एताँ शस्त्रे १४
एतां यस्याग्निनाग्नीन् व्यवेयुः १५
एतां जने प्रमीतस्य १६
जनयतु खलु प्रमीतस्येति विज्ञायते १७
अभि-वान्यवत्साया अस्य पयसाग्निहोत्रं जुहुयुरा यावदस्याग्निभिः शरीराणि सँ स्पर्शयेयुः १८
१४