सारस्वतौ त्वोत्सौ प्रावताम् इति । ऋक्सामे वै सारस्वतावुत्सौ ।
ताभ्यामेवैनं प्रावति ताभ्याँ समर्धयति १
अग्नये
ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेद् वारुणं यवमयं चरुम् २
सिद्धमिष्टिः सन्तिष्ठते ३
अथैकेषाम् ।
यद्यहुते-ऽग्निहोत्रेऽपरोऽग्निरनुगच्छेत्
तेभ्य एवावक्षाणेभ्यो मन्थितव्यः ४
अथ यदि न तादृशानीवावक्षाणानि
स्युर्भस्मनारणी सँ स्पर्श्य मन्थितव्यः । स्वादेवैनं
योनेर्जनयतीति विज्ञायते ५
ततोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं
निर्वपेत् ६
सिद्धमिष्टिः सन्तिष्ठते ७
अथैकेषाम् । यतरोऽग्निरनुगच्छेत्
तेभ्य एव दारुभ्योऽधिमन्थितव्यः ८
अथ यदि तृणैधः शकैधो वा स्याद्
भस्मनारणीं सँ स्पर्श्य मन्थितव्यः । स्वादेवैनं योनेर्जनयतीति
विज्ञायते ९
ततोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् १०
सिद्धमिष्टिः सन्तिष्ठते ११
न वानुगतेष्टिं कुर्यात् १२
एता
एवाहुतीर्जुहुयात् मित्राय स्वाहा ॥ वरुणाय स्वाहा ॥
सूर्याय स्वाहा ॥ अग्नये स्वाहा ॥ अग्नये व्रतपतये स्वाहा ॥
अग्नये तपस्वते जनद्वते पावकवते स्वाहा ॥ अग्नये शुचये स्वाहा ॥
अग्नये ज्योतिष्मते स्वाहा इति १३
व्याहृतीभिर्जुहोत्येकैकशः
समस्ताभिश्च १४
१३