यदि सायमहुतेऽग्निहोत्रे
पूर्वोऽग्निरनुगच्छेदग्निहोत्रमधिश्रित्योन्नीयाग्निना
पूर्वे-णोद्द्रुत्यान्वङ्ङग्निहोत्रेणानुद्र वेत् १
यो ब्राह्मणो बहुवित्
सोऽग्निमुद्धरेत् २
यत् पुरा धनमदायी स्यात्तद्दद्यात् ३
एतदेव प्रातः
४
यदि प्रातर-हुतेऽग्निहोत्रेऽपरोऽग्निरनुगच्छेदनुगमयित्वा पूर्वं
मथित्वापरमुद्धृत्य जुहुयाद् यदि न त्वरेत ५
अथ यदि त्वरेत
पूर्वमग्निमन्ववसाय ततः प्राञ्चमुद्धृत्य जुहुयात् ६
जामि तु तद्
योऽस्य पूर्वोऽग्निस्तमपरं करोति । अन्यत्रैवाव-सायाग्निं
मथित्वोद्धृत्य जुहुयात् । ततोऽग्नये तपस्वते जनद्वते
पावकवते-ऽष्टाकपालं निर्वपेत् ७
सिद्धमिष्टिः
सन्तिष्ठते ८
यदि
सायमहुतेऽग्निहोत्रे-ऽपरोऽग्निरनुगच्छेत्
पूर्वमग्निमन्ववसाय तत एव प्राञ्चमुद्धृत्य जुहुयात् ९
अथाभिमन्त्रयते
इत एव प्रथमं जज्ञे अग्निराभ्यो योनिभ्योऽधि जातवेदाः ।
स गायत्र्या त्रिष्टुभा जगत्यनुष्टुभा च देवेभ्यो हव्यं वह नः प्रजानन् ॥
इषे रय्यै रमस्व सहसे द्युम्नायोर्जेंऽपत्याय इति रमयत्येव । सम्राडसि
सुषदा सीद इति सुषदैवैनँ सादयति १०
१२