११

अथैकेषाम् । यस्याग्निमनुद्धृतँ सूर्योऽभिनिम्रोचेदभ्युदियाद् वा मनो ज्योति-र्जुषताम् ॥ त्रयस्त्रिँ शत्तन्तवः इति द्वे चतुर्गृहीते जुहुयात् १
यद्यनस्तमिते जुहुयात् पुनरेवास्तमिते हुत्वा भवतं नः समन्सौ इत्युपतिष्ठते २
यदि महारात्रे जुहुयात् पुनरेवौषसँ हुत्वा पूर्ववदुपतिष्ठेत ३ यस्यानुदितहोमेऽभिप्रेते-ऽग्निहोत्रमहुतँ सूर्योऽभ्युदियाद् यद्यन्ते स्यादुन्नीय प्राङुदाद्र वेत् ४
स उपसा-द्या तमितोरासीत ५
स यदा ताम्येदथ भूः स्वाहा इति जुहुयात् ६
यस्याहवनीयेऽनुद्वाते गार्हपत्य उद्वायेदनुगमयित्वाहवनीयं गार्हपत्यस्याव-क्षाणानि सन्निधाय मन्थेत् इतः प्रथमं जज्ञे अग्निः इत्येतया ७
अथैनमभिमन्त्रयते इषे रय्यै रमस्व सहसे द्युम्नायोर्जेंऽपत्याय इति ८
आहवनीयं प्रणीयोपसमिन्द्धे सारस्वतौ त्वोत्सौ समिन्धाताम् । सम्राडसि विराडसि इति ९
ततोऽग्नये तपस्वते जनद्वते पावकवतेऽष्टाकपालं निर्वपेत् १०
सिद्धमिष्टिः सन्तिष्ठते ११ एतदेव गार्हपत्ये धारयत्याहवनीयेऽनुगते प्रायश्चित्तम् १२
एतावन्नाना । नात्र गार्हपत्यमनुगमयति । अग्नये ज्योतिष्मते पुरोडाश-मष्टाकपालं निर्वपेन्न तपस्वते १३
सिद्धमिष्टिः सन्तिष्ठते १४
११