१०

ततो मैत्रं चरुं निर्वपेत् सौर्यमेककपालम् १
सिद्धमिष्टिः सन्तिष्ठते २ तस्याँ सँ स्थितायां वाग्यतावेतदहरनश्नन्तौ जायापती अग्निमिन्धानावासाते ३
द्वयोः पयसा सायमग्निहोत्रं जुहुयात् ४
श्वोऽग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ५
सिद्धमिष्टिः सन्तिष्ठते ६ यस्याग्निमनुद्धृतँ सूर्योऽभ्युदियाच्चतु-र्गृहीतमाज्यं गृहीत्वा पूर्वः प्रतिपद्येत ७
अन्वङ् ब्राह्मण आर्षेयो बहुविद-ग्निमुद्धरेत् । अन्वङ्ङग्निहोत्रेणानूद्द्रवेत् ८ प्रतिष्ठाप्याग्निमग्निहोत्रमुपसाद्य पुरस्तात्प्रत्यङ्ङुपविश्यैतेनाज्येन जुहुयात्

उषाः केतुना जुषतां यज्ञं देवेभिरन्वितम् ।

देवेभ्यो मधुमत्तमँ स्वाहा ॥

इति ९
ततो नित्यमग्निहोत्रं जुहुयात् १०
तत्र स एव होमकल्पः ११
स प्रायश्चित्तो यः प्रातरृतावतिनीतः १२
एतावन्नाना । नात्राहवनीयमनुगमयति १३
अग्नये ज्योतिष्मते पुरोडाशमष्टाकपालं निर्वपेत् १४
सिद्धमिष्टिः सन्तिष्ठते १५
१०