यदि सकृदुन्नीतँ स्कन्देद्यदि द्विर्यदि त्रिर्न तदाद्रि येतेति विज्ञायते
१
कृत्स्नानामग्निहोत्राणां वादमाश्मरथ्य ऊचे स्रुववादमित्यालेखनः २
यदि
चतुर्थ ँस्कन्देत् स्थाल्याँ शेषमानीय ततश्चतुर्गृहीतं गृहीत्वा
जुहुयात् । अपि वाज्यस्य वारुणीमृचमनूच्य वारुण्यर्चा जुहुयात्
३
अथैकेषाम् । यदि दुह्यमानावभिन्द्यादन्यां निर्णिज्य दोह्या ४
यदि
दुग्धमन्याभिदोह्या । यद्य-धिश्रितमन्याभिदोह्या । यदि
विष्यन्देतान्याभिदोह्या । यद्युन्नीयमानमन्या-भिदोह्या ।
यद्युन्नीतं पुनः प्रत्यवनीयान्याभिदोह्या ५
यदि प्राचीनँ
ह्रियमाणं प्रजापतेर्विश्वभृति तन्वँ हुतमसि स्वाहा
इत्यभिमृशेत् । आज्यस्य वारुणी-मृचमनूच्य वारुण्यर्चा
जुहुयात् ६
यदि लोहितं दुह्येतान्यद्वा विवर्णमन्वा-हार्यपचनं
परिश्रित्य अग्नये रुद्र वते स्वाहा इति जुहुयात् ७
यदि
शिलि-शिलीभवेत् समोषामुम् इति ब्रूयाद्यं द्विष्यात् ८
यदि
सायमाहुतौ स्कन्देदा प्रातराहुतेर्नाश्नीयात् । यदि
प्रातराहुतौ स्कन्देदा सायमाहुतेर्नाश्नीयात् ९
८