यद्यग्निहोत्र्युपसृष्टा निषीदेत् तामुत्थापयेत्
उदस्थाद् देव्यदितिर्विश्वरूप्यायुर्यज्ञपतावधात् ।
इन्द्रा य कृण्वती भागं मित्राय वरुणाय च ॥
इति १
तां दुग्ध्वा ब्राह्मणाय दद्याद्यस्यान्नं नाद्यात् २
अथ यदि
स्पन्देतान्यां दुह्यात् ३
यदि दुह्यमानँ स्कन्देत्
तदनुमन्त्रयेत
यदद्य दुग्धं पृथिवीमसक्त यदोषधीरप्यसरद्यदापः ।
पयो गृहेषु पयो अघ्नियासु पयो वत्सेषु पयो अस्तु मन्मयि ॥ इति ४
अथैनदद्भिरुपसृजति समुद्रं वः प्र हिणोमि इत्येतया ५
तदेव यादृक्कीदृक् च हुत्वाथान्यां दुग्ध्वा पुनर्जुहुयात् ६
यदि दुग्धँ
स्कन्देद्यद्यधिश्रितं यदि विष्य-न्देताभिदुह्य जुहुयादित्याश्मरथ्यः
। तदेव यादृक्कीदृक् च हुत्वाथान्यां दुग्ध्वा पुनर्जुहुयादित्यालेखनः ७
यद्युन्नीयमानँ स्कन्देद् यद्युन्नीतं यदि पुरः पराहृतँ
होमायाभिदुह्य जुहुयादित्याश्मरथ्यः । तदेव
यादृक्कीदृक् च हुत्वाथान्यां दुग्ध्वा पुनर्जुहुयादित्यालेखनः ८
यद्युद्द्रुतस्य स्कन्देद्यत्र स्कन्देत् तन्निषद्य पुनर्गृह्णीयात् । तदेव
यादृक्कीदृक् च हुत्वाथान्यां दुग्ध्वा पुनर्जुहुयात् ९
७