यद्यनधिश्रितँ स्याद्वैष्णव्यानुमन्त्रयेत १
यस्य हविर्निरुप्तं
पुरस्ताच्चन्द्र मा अभ्यु-देति त्रेधा तण्डुलान्
विभजेत् । ये मध्यमाः स्युस्तानग्नये दात्रे पुरोडाशम-ष्टाकपालं
कुर्यात् । ये स्थविष्ठास्तानिन्द्रा य प्रदात्रे दधँ श्चरुम् ।
येऽणिष्ठास्तान् विष्णवे शिपिविष्टाय शृते चरुम् २
अनिरुप्ताभ्युदिते कतमाभ्यो देवताभ्यो
निर्वपेत् । प्राकृतीभ्य इत्याश्मरथ्यो वैकृतीभ्य
इत्यालेखनः ३
सेयं नासन्नयतो विद्यत इत्येकम् । विद्यत
इत्यपरम् ४
अग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्यो
दर्शपूर्णमासयाजी सन्नमावास्यां वा पौर्णमासीं
वातिपादयेत् ५
पथोऽन्तिकाद्बर्हिराहरेत् ६
अनड्वान् दक्षिणा ७
सिद्धमिष्टिः सन्तिष्ठते ८
अथैकेषां विज्ञायते वि वा एतस्य यज्ञश्छिद्यते
यस्य यज्ञे प्रतत एतामन्तरेष्टिं निर्वपति । य एवासावाग्नेयोऽष्टाकपालः
पौर्णमासे योऽमावास्यायां तमग्नये पथिकृते कुर्यात् । तेनैव पुनः
पन्थामवैति न यज्ञं विच्छिनत्ति ९
अग्नये व्रतपतये
पुरोडाशमष्टाकपालं निर्वपेद् यद्याहिताग्निः
प्रवसन् पर्वणि माँ सं वाश्नीयात् स्त्रियं वोपेयात् १०
व्रतभृत एके समामनन्ति ११
एतामेव निर्वपेद्
यद्याहिताग्निरश्रु कुर्यात् १२
यथा कथा
च कुर्यात् प्रायश्चित्तमेव स्यादित्या-श्मरथ्यः । आर्तिजमेव
कुर्यादित्यालेखनः १३
६