०५

यदि दर्भान्न विन्देदप्सु जुहुयात् १
आपस्तु न परिचक्षीतेमा भोजनीया इमा अभोजनीया इत्याश्मरथ्यः । अप्यभोजनीयस्यैतँ संवत्सरं परिगृह्णीयादेवाप इत्यालेखनः २
अद्भिस्तु न पादौ प्रक्षालयीतेत्येकेषाम् ३
संवत्सरादग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् ४
सिद्धमिष्टिः सन्तिष्ठते ५
यद्याहिता-ग्नेरन्यैरग्निभिरग्नयः सँ सृज्येरन् मिथो वाग्नये विविचये पुरोडाशमष्टाकपालं निर्वपेत ६
ततो व्रतपतये ७
सिद्धमिष्टिः सन्तिष्ठते ८
यद्याहिताग्नेरग्निर्गृहान् दहेदग्नये क्षामवते पुरोडाशमष्टाकपालं निर्वपेत् ९
ततो व्रतपतये १० सिद्ध-मिष्टिः सन्तिष्ठते ११
अथ यद्यभ्यादाह्येन सँ सृज्येरन् विविचये निरुप्य शुचये निर्वपेत् १२
ततो व्रतपतये १३ सिद्धमिष्टिः सन्तिष्ठते १४
अथ यदि वैद्युतेन सँ सृज्येरन्नग्नयेऽप्सुमते पुरोडाशमष्टाकपालं निर्वपेत् १५
ततो व्रतपतये १६
सिद्धमिष्टिः सन्तिष्ठते १७
अथ यदि शवाग्निना सूतकाग्निना वा सँ सृज्येरन्नग्नये सङ्कुसुकाय पुरोडाशमष्टाकपालं निर्वपेत् १८
ततो व्रतपतये १९
सिद्ध-मिष्टिः सन्तिष्ठते २०
अथ यदि सर्वाणि सन्निपतेयुः क्षामवतीमन्ते कुर्यात् २१
यद्यग्निहोत्रस्थाली स्रवेत् तामभिमन्त्रयेत

गर्भ ँस्रवन्तमगदमकरग्निरिन्द्र स्त्वष्टा बृहस्पतिः ।

पृथिव्यामवचुश्चोतैतन्नाभिप्राप्नोति निरृतिं पराचैः ॥

इति २२
स्कन्नमपोऽभ्यवहरेत् २३