०४

यदि पुरा प्रयाजेभ्यो बहिःपरिध्यङ्गारः स्कन्देत् तँ स्रुवस्य बुध्नेनाभिनिदध्यात्

मा तमो मा यज्ञस्तमन्मा यजमानस्तमत् ।

नमस्ते अस्त्वायते नमो रुद्र परायते नमो यत्र निषीदसि ॥

अध्वर्युं मा हि ँसीर्यजमानं मा हि ँसीः इति यदि पुरस्तात् । ब्रह्माणं मा

हि ँसीर्यजमानं मा हि ँसीः इति यदि दक्षिणतः । होतारं मा हि ँसीः पत्नीं मा हि ँसीर्यजमानं मा हि ँसीः इति यदि पश्चात् । आग्नीध्रं मा हि ँसीः पशून् मा हि ँसीर्यजमानं मा हि ँसीः इति यद्युत्तरतः १
अथैनमनुप्रहरति

सहस्रशृङ्गो वृषभो जातवेदाः स्तोमपृष्ठो घृतवान् सुप्रतीकः ।

मा नो हासीन्मेथितो नेत्त्वा जहाम गोपोषं नो वीरपोषं च यच्छ ॥

इति २
प्रहृत्याभिजुहुयादित्येकेषाम् ३
येन स्कन्देत् तेन प्रहरेत् ४ यद्याहिताग्नेरग्निर्मथ्यमानो न जायेत

अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् ।

दूरेदृशं गृहपतिमथर्युम् ॥

इत्यभिमन्त्र्य यत्रान्यं पश्येत् तत आहृत्य विहृत्य जुहुयात् ५ ततोऽत्वरमाणः पुनर्मन्थेत् ६
यद्यन्यं न विन्देदजायै दक्षिणे कर्णे जुहुयात् ७
अजस्य तु ततो नाश्नीयात् ८
यद्यजां न विन्देद् ब्राह्मणस्य दक्षिणे हस्ते जुहुयात् ९
ब्राह्मणं तु वसत्यै नापरुन्ध्यात् १०
यदि ब्राह्मणं न विन्देद् दर्भस्तम्बे जुहुयात् ११
दर्भा ँस्तु नाध्यासीत १२