यदि पुरा प्रयाजेभ्यो बहिःपरिध्यङ्गारः स्कन्देत् तँ स्रुवस्य बुध्नेनाभिनिदध्यात्
मा तमो मा यज्ञस्तमन्मा यजमानस्तमत् ।
नमस्ते अस्त्वायते नमो रुद्र परायते नमो यत्र निषीदसि ॥
अध्वर्युं मा हि ँसीर्यजमानं मा हि ँसीः इति यदि पुरस्तात् । ब्रह्माणं मा
हि ँसीर्यजमानं मा हि ँसीः इति यदि दक्षिणतः । होतारं मा हि ँसीः
पत्नीं मा हि ँसीर्यजमानं मा हि ँसीः इति यदि पश्चात् । आग्नीध्रं
मा हि ँसीः पशून् मा हि ँसीर्यजमानं मा हि ँसीः इति यद्युत्तरतः
१
अथैनमनुप्रहरति
सहस्रशृङ्गो वृषभो जातवेदाः स्तोमपृष्ठो घृतवान् सुप्रतीकः ।
मा नो हासीन्मेथितो नेत्त्वा जहाम गोपोषं नो वीरपोषं च यच्छ ॥
इति २
प्रहृत्याभिजुहुयादित्येकेषाम् ३
येन स्कन्देत् तेन प्रहरेत् ४
यद्याहिताग्नेरग्निर्मथ्यमानो न जायेत
अग्निं नरो दीधितिभिररण्योर्हस्तच्युती जनयन्त प्रशस्तम् ।
दूरेदृशं गृहपतिमथर्युम् ॥
इत्यभिमन्त्र्य यत्रान्यं पश्येत् तत आहृत्य विहृत्य जुहुयात् ५
ततोऽत्वरमाणः पुनर्मन्थेत् ६
यद्यन्यं न विन्देदजायै
दक्षिणे कर्णे जुहुयात् ७
अजस्य तु ततो नाश्नीयात् ८
यद्यजां न
विन्देद् ब्राह्मणस्य दक्षिणे हस्ते जुहुयात् ९
ब्राह्मणं तु वसत्यै
नापरुन्ध्यात् १०
यदि ब्राह्मणं न विन्देद् दर्भस्तम्बे
जुहुयात् ११
दर्भा ँस्तु नाध्यासीत १२
४