०३

तामिष्ट्वोपह्वयेत

अमूहमस्मि सा त्वं द्यौरहं पृथिवी त्वँ सामाहमृक् त्वम् ।

तावेहि सम्भवावहै रेतो दधावहै पुँ से पुत्राय वेत्तवै

रायस्पोषाय सुप्रजास्त्वाय सुवीर्याय ॥

इति १
यदि सान्नाय्यमग्निहोत्रं वा विष्यन्देत प्राजापत्ययर्चा वल्मीकवपा-यामवनीय भूः इत्युपतिष्ठेत २
ततोऽन्यां दुग्ध्वा पुनर्जुहुयाद् यद्यग्निहोत्रम् ३
यद्यु वै सान्नाय्यमुत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ४
यदि सान्ना-य्येऽग्निहोत्रे वा कीटोऽवपद्येत मध्यमेन पर्णेन द्यावापृथिव्ययर्चान्तःपरिधि निनयेत् ५
ततोऽन्यां दुग्ध्वा पुनर्जुहुयाद् यद्यग्निहोत्रम् ६
यद्यु वै सान्नाय्यमुत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ७ यद्युद्द्रुतमग्निहोत्रमववर्षेत्

मित्रो जनान् कल्पयति प्रजानन् मित्रो दाधार पृथिवीमुत द्याम् ।

मित्रः कृष्टीरनि मिषाभिचष्टे सत्याय हव्यं घृतवज्जुहोति ॥

इति जुहुयात् ८
ततोऽन्यां दुग्ध्वा पुनर्जुहुयात् ९
यदि पूर्वस्यामाहुत्याँ हुतायामुत्तराहुतिः स्कन्देत् पूर्वां वोत्तरयाभिजुहुयात्

यत्र वेत्थ वनस्पते देवानां गुह्या नामानि ।

तत्र हव्यानि गामय ॥

इति वानस्पत्ययर्चा समिधमाधाय तूष्णीमेव पुनर्जुहुयात् १०
ततोऽन्यां दुग्ध्वा पुनर्जुहुयात् ११
यदि पूर्वस्यामाहुत्याँ हुतायामाहवनीय उद्वायेदन्तमे शकले हिरण्यं निधायाभिजुहुयात् अग्निर्दारौ दारावग्निरगात् स्वाहा इति १२