यदि परस्तरामपक्षायेदनुप्रयायावस्येत् १
ततोऽग्नये पथिकृते
पुरोडाशमष्टा-कपालं निर्वपेत् २
पथोऽन्तिकाद्बर्हिराहरेत् ३
अनड्वान् दक्षिणा ४
सिद्ध-मिष्टिः सन्तिष्ठते ५
यदि हविषे वत्सा अपाकृता धयेयुर्वायव्यां
यवागूं निर्वपेत् ६
सा दोहस्य स्थाने स्याद्यतरस्मा अपाकृता धयेयुः ७
अथोत्तरस्मै हविषे वत्सानपाकृत्योपवसेत् ८
यदि सायं दुग्धँ
हविरार्तिमार्छेदिन्द्रा य व्रीहीन् निरुप्योपवसेत् ९
यत्
प्रातः स्यात् तच्छृतं कुर्यात् १०
अथेतर ऐन्द्र ःपुरोडाशः स्यात् ११
तस्य प्रातर्दोहेन समवदाय प्रचरेत् १२
अथोत्तरस्मै हविषे
वत्सानपाकृत्योपवसेत् १३
एतदेव प्रातर्दोह
आर्तिगते प्रायश्चित्तम् १४
एतावन्नाना । सायन्दोहेनात्र समवदाय प्रचरेत् १५
यस्योभौ दोहावार्ति-मार्छेयातामैन्द्रं पञ्चशरावमोदनं निर्वपेत् १६
तस्योभे
देवते यजेताग्निं चेन्द्रं चेत्याश्मरथ्यः । अथालेखनः । इन्द्र मेवैतस्य
यजेत १७
नित्य आग्नेयो-ऽष्टाकपालः १८
अथोत्तरस्मै हविषे
वत्सानपाकृत्योपवसेत् १९
यस्य व्रत्येऽहन्
पत्न्यनालम्भुका स्यात् तामपरुध्य यजेत २०
उदक्शुल्बँ
स्तृणीयात् २१
२