श्रुतिलक्षणं प्रायश्चित्तं विध्यपराधे विधीयते १
एकस्मिन् दोषे
श्रूयमाणानि प्रायश्चित्तानि
समभ्युच्चीयेरन्नर्थान्तरत्वात्
२
जपो होम इज्या च ३
दोष-निर्घातार्थानि भवन्ति ४
अनन्तरं दोषात्
कर्तव्यानि ५
निर्हृते दोषे पुनः कृत्स्नं कर्म ६
तस्य
नावचनात् पुनः प्रयोगः ७
यद्यन्वाहिताग्निः प्रयायात् तुभ्यं ता अङ्गिरस्तम
इति गार्हपत्ये जुहुयात् ८
पृथगरणीष्वग्नीन् समारोप्य प्रयाति ९
स
यत्रावस्यति तदेतामिष्टिँ सँ स्थापयति १०
यद्यन्वाहिताग्नेरा-हवनीय उद्वायेत्
अन्वग्निरुषसामग्रमख्यत् इत्यन्यं प्रणीय भूः
इत्युपस्था-याज्यस्य स्रुवं पूर्णं जुहोति
यो अग्निं देववीतये हविष्माँ आविवासति ।
तस्मै पावक मृडय स्वाहा ॥
इति ११
तत एतामाहुतिं जुहोति इदं विष्णुर्वि चक्रमे इति १२
मनसा
व्रतोपायनीयं यजुर्जपेत् १३
यः कश्चनानुगच्छेदेतदेव
प्रणयनवर्जम् १४
मन्थेद्गार्हपत्यम् १५
यथाप्रकृत्यन्वाहार्यपचनम् १६
यद्याहिताग्नेरग्निर-पक्षायेदा शम्यापरासात् तँ सम्भरेत्
इदं त एकं पर उ त एकं तृतीयेन ज्योतिषा संविशस्व ।
संवेशनस्तनुवै चारुरेधि प्रिये देवानां परमे जनित्रे ॥
इति १७
१