०१

श्रुतिलक्षणं प्रायश्चित्तं विध्यपराधे विधीयते १
एकस्मिन् दोषे श्रूयमाणानि प्रायश्चित्तानि समभ्युच्चीयेरन्नर्थान्तरत्वात् २
जपो होम इज्या च ३
दोष-निर्घातार्थानि भवन्ति ४
अनन्तरं दोषात् कर्तव्यानि ५
निर्हृते दोषे पुनः कृत्स्नं कर्म ६
तस्य नावचनात् पुनः प्रयोगः ७
यद्यन्वाहिताग्निः प्रयायात् तुभ्यं ता अङ्गिरस्तम इति गार्हपत्ये जुहुयात् ८
पृथगरणीष्वग्नीन् समारोप्य प्रयाति ९
स यत्रावस्यति तदेतामिष्टिँ सँ स्थापयति १० यद्यन्वाहिताग्नेरा-हवनीय उद्वायेत् अन्वग्निरुषसामग्रमख्यत् इत्यन्यं प्रणीय भूः इत्युपस्था-याज्यस्य स्रुवं पूर्णं जुहोति

यो अग्निं देववीतये हविष्माँ आविवासति ।

तस्मै पावक मृडय स्वाहा ॥

इति ११
तत एतामाहुतिं जुहोति इदं विष्णुर्वि चक्रमे इति १२
मनसा व्रतोपायनीयं यजुर्जपेत् १३
यः कश्चनानुगच्छेदेतदेव प्रणयनवर्जम् १४
मन्थेद्गार्हपत्यम् १५
यथाप्रकृत्यन्वाहार्यपचनम् १६ यद्याहिताग्नेरग्निर-पक्षायेदा शम्यापरासात् तँ सम्भरेत्

इदं त एकं पर उ त एकं तृतीयेन ज्योतिषा संविशस्व ।

संवेशनस्तनुवै चारुरेधि प्रिये देवानां परमे जनित्रे ॥

इति १७