काम्यानि चातुर्मास्यानि व्याख्यास्यामः १
वैश्वदेवेन पशुकामो यजेत २
यस्मिन्नस्यर्तौ भूयिष्ठं पयः स्यादपि वा यदास्य वसन्ते
भूयिष्ठं पयः स्यादथ वैश्वदेवेन यजेत ३
वैश्वदेवेनैव पशुकामो
यजेत नेतरैः पर्वभिरा यावत् सहस्रं पशून् प्राप्नुयात् ४
सहस्रं पशून्
प्राप्येतरैः पर्वभिर्यथाकालं यजेत ५
शुना-सीर्येण ग्रामकामो
यजेत ६
वर्ष्यमुदकमन्ववसायैतेनैव प्रजाकामो यजेत पशुकामो
यजेतान्नाद्यकामो यजेत प्रतिष्ठाकामो यजेतेति
विज्ञायते ७
पञ्चसांवत्सरिकाणि व्याख्यास्यामः ८
फाल्गुन्यां प्रयुज्य त्रीनृतून् संवत्स-रानिष्ट्वा मासं
विरमेत् ९
चैत्र्यां प्रयुज्य द्वावृतू संवत्सराविष्ट्वा विरमेत् १०
तन्त्रं वैश्वानरपार्जन्ये भवतस्तन्त्रं पञ्चहोता ११
चातुर्मास्यैरिष्ट्वा
सोमेन यजेत १२
सोमस्य वा एतद्रू पं यच्चातुर्मास्यानीति विज्ञायते १३
सोमाशक्तौ पशुना यजेत । पशुनाशक्तौ पुनः प्रयोगश्चातुर्मास्यानाम्
। स त्रिषुत्रिषु संवत्सरेषु मासमुत्सृजेदिति विज्ञायते मासमुत्सृजेदिति
विज्ञायते १४
२५
इति अष्टमः प्रश्नः