ततश्चतुर्षु मासेषु शुनासीर्येण यजते मासि वार्धमासे वा चतुरहे त्र्यहे
द्व्यहे वैकाहे वा १
तस्य वैश्वदेवेन कल्पो व्याख्यातः २
विकाराननुक्रमिष्यामः ३
समानमा निर्वपणात्
४
आग्नेयमष्टाकपालमिति नित्यानि पञ्च सञ्चराणि निरुप्यैन्द्रा ग्नं
द्वादशकपालं वैश्वदेवं चरुमिन्द्रा य शुनासीराय पुरोडाशं
द्वादशकपालं वायव्यं पयः सौर्यमेककपालमिति ५
प्रातर्दोहेन पयसः कल्पो
व्याख्यातः ६
एककपालस्यावृतैककपालँ हुत्वोत्तमेन
मासनाम्नाभिजुहोति सँ सर्पोऽस्यँ हस्पत्याय
स्वाहा इति ७
अनुवत्सरीणाँ स्वस्तिमाशासे इतीडाया आशीःषु यजमानो जपति
८
द्वादशगवँ सीरँ षड्गवं वोष्टारौ वोष्टारं वा ९
अनुवत्सरीणाँ
स्वस्तिमाशास्ते दिव्यं धामाशास्ते इति
सूक्तवाके होताशास्ते १०
एकँ समिष्टयजुर्जुहोति ११
सिद्धमिष्टिः सन्तिष्ठते १२
तथा निवर्तयते १३
व्याख्यातं
निवर्तनम् १४
सन्तिष्ठन्ते चातुर्मास्यानि १५
२४