२३

भग स्थ भगस्य वो लप्सीय इति १
परीत्यपरीत्य यजमानायाभिसमावपन्ति २ पतिकामाया अभिसमावपेयुः ३
यस्य कस्य च पतिकामा स्यादित्येकम् । यजमानस्येत्यपरम् ४
तान् मूते कृत्वा परोगोष्ठे वृक्ष आसज्योपतिष्ठन्ते एष ते रुद्र भागस्तं जुषस्व तेनावसेन परो मूजवतोऽतीहि ॥ अवततधन्वा पिनाकहस्तः कृत्तिवासाः इति । त्रिरवताम्यन्ति ५
अनुपरिषिच्य मार्जयन्ते सुमित्रा न आप ओषधयः सन्तु इति ६
समिधः कृत्वाप्रतीक्षमायन्ति ७ एधोऽस्येधिषीमहि इत्याहवनीये समिध आधायोपतिष्ठन्ते अपो अन्वचारिषम् इति ८
एवं पत्नी गार्हपत्य आधायोपतिष्ठते ९ प्रत्येत्यादित्यै घृते चरुं निर्वपति १० तस्याग्न्याधेयेन कल्पो व्याख्यातोऽन्यत्र वरदानात् ११
अश्वँ श्वेतमेके समामनन्ति १२
सद्यस्काला एता इष्टयो भवन्त्यन्यत्रानीकवतात् क्रैडिनादिति १३ ततो निवर्तयते १४
व्याख्यातं निवर्तनं तथा व्रतचर्या १५
२३