प्रतिपूरुषमेककपालान् निर्वपति यथा करम्भपात्राणि १
उत्तरार्धे
गार्हपत्यस्य कपालान्युपधाय श्रपयति २
अथैनानभिघार्यानभिघार्य वोद्वास्य मूतेऽवदधाति ।
मूतयोर्मूतेषु वा ३
कोशापिधानेन हरन्तीत्येकेषाम् ४
दक्षिणाग्नेरेकोल्मुकं धूपायत्
पराचीनँ हरति ५
उत्तरपूर्वमवान्तरदेशं गत्वाखूत्कर एकमुपवपति
यावन्तो गृह्या स्मस्तेभ्यः कमकरम् इति ६
चतुष्पथ
एकोल्मुकमुपसमाधाय सम्परिस्तीर्य मध्यमे
पलाशपर्ण उपस्तीर्यान्तमे वा सरवेषामेककपालानाँ सकृत्सकृत्
समवदायाभिघार्य जुहोति एष ते रुद्र भागः सह
स्वस्राम्बिकया तं जुषस्व स्वाहा इति ७
हुतं यजमानोऽनुमन्त्रयते
भेषजं गवे इति द्वाभ्याम् ८
प्रतिपूरुषमेककपालानादाय प्रदक्षिणं
चतुष्पथं त्रिः परियन्ति त्र्यम्बकं यजामहे इत्येतया ९
यदि पतिकामा
स्यात् सापि परीयात्
त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् ।
उर्वारुकमिव बन्धनादितो मुक्षीय मा पतेः ॥
इति १०
तानूर्ध्वानुदस्य प्रतिलभन्ते ११
२२