२१

उत्तरस्याँ स्रक्त्यां लेपं निमृज्य अत्र पितरो यथाभागं मन्दध्वम् इत्युक्त्वोदञ्च उपनिष्क्रम्या तमितोराहवनीयमुपतिष्ठन्ते १
समन्य जपन्ति सुसन्दृशं त्वा वयं मघवन् मन्दिषीमहि इति २
अक्षन्नमीमदन्त इति गार्हपत्यमुपतिष्ठन्ते ३
अमीमदन्त पितरः सोम्याः इति परायन्ति ४ परेत पितरः सोम्याः इति पुनरभिप्रपद्यन्ते ५
तूष्णीं दशां वोर्णास्तुकां वा प्रच्छिद्योपन्यस्यायन्ति एतानि वः पितरो वासाँ स्यतो नोऽन्यत् पितरो मा यूढ्वम् इति ६
आञ्जनप्रभृति गार्हपत्योपस्थानान्तं कर्म क्रियते यथा पिण्डपितृयज्ञे ७
अत्रैके परिषेचनँ समामनन्ति ८
विस्रस्य प्राचीनावीतानि यज्ञोपवीतानि कुर्वते ९
विपरि-हरन्ति स्रुचो विपरिक्रामन्त्यृत्विजः १०
व्यपच्छाद्य परिश्रयणँ सम्प्रेष्यति ब्रह्मन् प्र स्थास्यामः इति ११
अपबर्हिषौ द्वावनूयाजौ यजति १२
देवौ यज इति पूर्वमनूयाजँ सम्प्रेष्यति । यज इत्युत्तरम् १३
सूक्तवाकं प्रति होता निव्ययते १४
नात्र पत्न्यन्वास्ते न संयाजयन्ति न समिष्टयजुर्जुहोति १५
सिद्धमिष्टिः सन्तिष्ठते १६
शंयुवन्तेत्येकेषाम् १७
२१