२०

असमवदाय प्रचरणमेके समामनन्ति १
ततः सम्प्रेष्यति अग्नये कव्यवाहनाय स्विष्टकृतेऽनु स्वधा इति २
जुह्वामुपस्तीर्य सर्वेषाँ हविषां दक्षिणार्धात् सकृत्सकृच्चतुरवदानस्यावद्यति द्विर्द्विः पञ्चावदानस्य ३
अभिघार्योदङ्ङत्या-क्रम्य आ स्वधा इत्याश्रावयति । अस्तु स्वधा इति प्रत्याश्रावयति ४
अग्निं कव्यवाहनँ स्विष्टकृतँ स्वधा इति सम्प्रेष्यति ५
ये स्वधामहे इत्यागूर्भवति ६
स्वधा नमः इति वषट्करोति ७
मन्थस्याग्र इडामवदायेतरयोरवद्यति । मन्थमिडामवद्यतीत्येकेषाम् ८ उपहूतामिडामवघ्रेण भक्षयन्ति होताग्रेऽथा-ध्वर्युरथ ब्रह्माथाग्नीध्रोऽथ यजमानः ९
उदकुम्भमादाय प्रसव्यमग्निं त्रिः परि-षिञ्चन् पर्येति शुन्धन्तां पितरः इति । त्रिरपरिषिञ्चन् प्रतिपर्येति अया विष्ठा जनयन् कर्वराणि इति १०
हविःशेषान् सम्प्रयुत्य त्रीन् पिण्डान् कृत्वा तिसृषु स्रक्तिषु निदधाति पश्चार्ध्यायां दक्षिणार्ध्यायां पूर्वार्ध्यायाम् ११
एतद्वा विपरीतम् १२
एतत् ते तत ये च त्वामनु इत्येतैर्मन्त्रैर्यथा पिण्डपितृयज्ञे १३
२०