ततः सम्प्रेष्यति सोमाय पितृमतेऽनु स्वधा इति १
जुह्वामुपस्तीर्य सर्वेषाँ
हविषाँ सह स्विष्टकृता द्वेद्वे पुरोनुवाक्ये अन्वाहोभे सप्रणवे २
षडवत्तं पञ्चावत्तिना-मवद्यति पञ्चावत्तं चतुरवत्तिनाम् ३
षडवत्ते मुख्यान्मुख्याद्धविषो द्विरवद्यति ४
पुरोडाशस्यावदाय धानानामवद्यति ५
एवं
मन्थस्य ६
अभिघार्यो-दङ्ङत्याक्रम्य आ स्वधा इत्याश्रावयति ।
अस्तु स्वधा इति प्रत्याश्रावयति ७
सोमं पितृमन्तँ स्वधा इति सम्प्रेष्यति ८
ये स्वधामहे इत्यागूर्भवति ९
स्वधा नमः इति वषट्करोति १०
ततः सम्प्रेष्यति
पितृभ्यो बर्हिषद्भ्योऽनु स्वधा इति ११
जुह्वामुपस्तीर्य धानानामवदाय
मन्थस्यावद्यति १२
एवं पुरोडाशस्य १३
अभिघार्योदङ्ङत्याक्रम्य आ स्वधा
इत्याश्रावयति । अस्तु स्वधा इति प्रत्याश्रावयति १४
पितॄन् बर्हिषदः
स्वधा इति सम्प्रेष्यति १५
ये स्वधामहे इत्यागूर्भवति १६
स्वधा नमः
इति वषट्करोति १७
ततः सम्प्रेष्यति पितृभ्योऽग्निष्वात्तेभ्योऽनु स्वधा
इति १८
जुह्वामुपस्तीर्य मन्थादवदाय पुरोडाशस्यावद्यति १९
एवं
धानानाम् २०
अभिघार्योदङ्ङत्याक्रम्य आ स्वधा इत्याश्रावयति
। अस्तु स्वधा इति प्रत्याश्रावयति २१
पितॄनग्निष्वात्तान् स्वधा इति
सम्प्रेष्यति २२
ये स्वधामहे इत्यागूर्भवति २३
स्वधा नमः इति
वृषट्करोति २४
१९