१८

द्वौ परिधी परिदधाति मध्यमं चैव दक्षिणार्ध्यं च १
नात्र विधृती भवतः २ तूष्णीमेव प्रस्तरं न्यस्यति ३
एकैकश आज्यानि हवी ँ! षीत्यासादयन्ति ४
अग्निमग्रे हरन्त्यथोदकुम्भमाज्यान्यथ हवी ँ! षि ५
एकैकमलङ्करोति वा । एषामेष परिवेष इत्येकेषाम् ६
दक्षिणतः कशिपूपबर्हणमाञ्जनमभ्यञ्जन-मित्येकैकश आसाद्य विस्रस्य प्राचीनावीतानि यज्ञोपवीतानि कुर्वते ७
ततः सम्प्रेष्यति अग्नये देवेभ्यः पितृभ्यः समिध्यमानायानुब्रूहि इति ८ उशन्तस्त्वा हवामहे इत्येताँ सामिधेनीं त्रिरन्वाह ९ सकृदेवेध्ममादधाति त्रैधं वा विभज्य १० स्रुवाघारमाघार्य सम्प्रेष्यति अग्नीत् परिधी चाग्निं च त्रिस्त्रिः सम्मृड्ढि इति ११
समानमा प्रवरात् १२
आश्राव्याह सीद होतः इति १३
एतावान् प्रवरः १४
नार्षेयं वृणीते न होतारम् १५ अपबर्हिषश्चतुरः प्रयाजान् यजति १६
आज्यभागाभ्यां प्रचर्य विस्रस्य यज्ञोपवीतानि प्राचीनावीतानि कुर्वते १७
अत्रैके परिश्रयणँ समामनन्ति १८
विपरिहरन्त्याज्यानि विपरिहरन्ति हवी ँषि विपरिक्रामन्त्यृत्विजः १९
दक्षिणेन जुहूमुपभृतँ सादयति दक्षिणेनोपभृतं ध्रु-वाम् । दक्षिणेन पुरोडाशं धानाः सादयति दक्षिणेन धाना मन्थम् २०
समानत्र जुहूर्भवति समानत्र पुरोडाशः समानत्र ब्रह्मा च यजमानश्च २१
१८